________________
ऽध्यायः] गृहस्थाश्रमधर्मवर्णनम् ।
यो न दद्याद्विजातिभ्यो राशिमूलमुपागतः । स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत् ।।१३ राज्ञे दत्वा तु षड्भागं देवानाञ्चैकविंशकम् । विप्राणां त्रिंशकं भागं कृषिकर्ता न लिप्यते ॥१४ क्षत्रियोऽपि कृषि कृत्वा द्विजान् देवांश्च पूजयेत् । वैश्यः शूद्रः सदा कुर्यात् कृषिवाणिज्यशिल्पकान् ।।१५ विकर्म कुर्वते शूद्रा द्विजसेवाविवर्जिताः । भवन्त्यल्पायुषस्ते वै पतन्ति नरकेषु च ॥१६ चतुर्णानामपिवर्णानामेष धर्मः सनातनः ।।१७
इति पाराशरे धर्मशास्त्र द्वितीयोऽध्यायः॥
॥ तृतीयोऽध्यायः ।।
अशौचव्यवस्थावर्णनम्। अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा । दिनत्रयेण शुद्धयन्ति ब्राह्मणाः प्रेतसूतके ॥१ क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः । शूद्रः शुद्धति मासेन पराशरंवचो यथा ॥२ उपासने तु विप्राणामङ्गशुद्धिस्तु जायते। ब्राह्मणानां प्रसूतौ तु देहस्पर्टी विधीयते ॥३ जाते विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धयति ॥४