________________
६३४
पराशरस्मृतिः।
[तृतीयोएकाहाच्छुद्धयते विप्रो योऽग्निवेदसमन्वितः । त्र्यहात् केवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥५ जन्मकर्मपरिभ्रष्टः सन्ध्योपासनवर्जितः । नामधारकविप्रस्य दशाहं सूतकं भवेत् ॥६ एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः । जन्मन्यपि विपत्तौ च भवेत्तेषाञ्च सूतकम् ।।७ उभयत्र दशाहानि कुलस्यान्न न भुञ्जते । दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्त्तते ॥८ प्राप्नोति सूतकं गोत्रे चतुर्थपुरुषेण तु । दायाद्विच्छेदमाप्नोति पञ्चमो वात्मवंशजः ॥६ चतुर्थे दशरात्रं स्यात् षण्णिशा पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सतमे तु दिनत्रयम् ॥१० पञ्चभिः पुरुषैर्युक्ता अश्राद्ध या सगोत्रिगः । ततः षट्पुरुषाद्यश्च श्राद्ध भोज्याः सगोत्रिणः ॥११ भृग्वग्निमरणे चैव देशान्तरमृते तथा । वाले प्रेते च सन्न्यासे सद्यः शौचं विधीयते ॥१२ दशरात्रेष्वतीतेषु त्रिरात्राच्छुद्धिरिष्यते। ततः सम्वत्सरादूचं सचैलं स्नानमाचरेत् ॥१३ देशान्तरमृतः कश्चित् सगोत्रः श्रूयते यदि । न त्रिरात्रमहोरात्रं सद्यः स्नात्वा विशुद्धयति ॥१४ आत्रिपक्षात्रिरात्रं स्यादाषण्मासाच्च पक्षिणी । अहः सम्वत्सरादर्वाक् सद्यः शौचं विधीयते ॥१५