SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [द्वितीयोहलमष्टगवं धयं षड्गवं मध्यमं स्मृतम् । चतुर्गवं नृशंसानां द्विगवं वृषघातिनाम् ॥३ क्षुधितं तृषितं श्रान्तं वलीवई न योजयेत् । हीनाङ्गं व्याधितं क्लीवं वृषं विप्रो न वाहयेत् ॥४ स्थिराङ्गं नीरुजं दृप्त वृषभं षण्डवर्जितम् । वाहयेदिवसस्या पश्चात् स्नानं समाचरेत् ।।५ जपं देवार्चनं होमं स्वाध्यायं साङ्गमभ्यसेत् । एकद्वित्रिचतुर्विप्रान् भोजयेत् स्नातकान् द्विजः ॥६ स्वयंकृटे तथा क्षेत्रे धान्यैश्च स्वयमजितैः। निर्वपेत् पञ्च यज्ञानि क्रतुदीक्षाच कारयेत् ।।७ तिला रसा न विक्रेया विक्रेया धान्यतःसमा । विप्रत्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः ।।८ ब्राह्मणस्तु कृषि कृत्वा महादोष मवाप्नुयात् । सम्वत्सरेण यत्पापं मत्स्यवाती समाप्नुयात् । अयोमुखेन काष्ठेन तदेकाहेन लागली ॥६ पाशको मस्यघाती च व्याधः शाकुनिकत्तथा । अदाता कर्षकश्चैव पञ्चैते समभागिनः ।।१० कण्डनी पेषणी चुल्ली उदकुम्भोऽथ मार्जनी। . पञ्च शूना गृहस्थत्य अहन्यहनि वर्तते ॥११ वृक्षान् छित्वा महीं हत्वा हत्वा तु मृगकीटकान् । कर्षकः खलु यज्ञेन सर्वपापात् प्रमुच्यते ॥१२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy