________________
ऽध्यायः] आचारधर्मवर्णनम्। ६३१
पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् । मालाकार इवोद्याने न तथाङ्गारकारकः ।।६० लोहकर्म तथा रत्नं गवाञ्च प्रतिपालनम् । वाणिज्यं कृषिकर्माणि वैश्यवृत्तिरुदाहृता ॥६१ शूद्राणां द्विजशुश्रूषा परो धर्मः प्रकीर्तितः । अन्यथा कुरुते किञ्चित्तद्भवेत्तस्य निष्फलम् ॥६२ लवणं मधु तैलञ्च दधि तक्रं घृतं पयः । न दूष्ये छदजातीनां कुर्यात् सर्वत्य विक्रयम् ॥६३ अविक्रयं मद्यमांसमभश्यस्य च भक्ष गम् । अगम्यागमनचैव शूद्रोऽपि नरकं ब्रजेत् ।।६४ कपिलाक्षीरपानेन ब्राह्म गोगमनेन च । वेदाक्षरविचारेण शूद्रस्य नरकं ध्रुवम् ।।६५ इति पाराशरे धर्मशास्त्रे प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥
गृहस्थाश्रमधर्मवर्णनम् । अतःपरं गृहस्थस्य धर्माचारं कलौ युगे। धर्म साधारणं शक्यं चातुर्वाश्रमागतम् ॥१. संप्रवक्ष्याम्यहं भूयः पाराशयं प्रचोदितः । षट्कर्मनिरतो विप्रः कृषिकर्माणि कारयेत् ॥२