________________
६३०
पराशरस्मृतिः।
[प्रथमोअकृत्वा वैश्वदेवन्तु भुञ्जते ये द्विजातयः। सर्वे ते निष्फला ज्ञेयाः पतन्ति नरके शुचौ ॥४६ शिरोवेष्टन्तु यो भुङ्क्ते योभुङ्क्ते दखिणामुखः । वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते ॥५० यतये काञ्चनं दत्त्वा ताम्बूलं ब्रह्मचारिणे । चौरेभ्योऽप्यभयं दत्त्वा दातापि नरकं व्रजेत् ॥५१ पापोवा यदि चाण्डालो विप्रघ्नः पितृघातकः । वैश्वदेवे तु सम्प्राप्तः सोऽतिथिः स्वर्गसंक्रमः ।।५२ अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते । पितरस्तस्य नाश्नन्ति दशवर्षशतानि च ॥५३ न प्रसज्याति गो विप्रो ह्यतिथिं वेदपारगम् । अददन्नान्नमात्रन्तु भुक्त्वा भुङ्क्ते तु किल्विषम् ॥५४ ब्राह्मणस्य मुखं क्षेत्रं निरुदकमकण्टकम् ।। वापयेत् सर्ववीजानि सा कृषिः सर्वकामिका ॥५५ . सुक्षेत्रे वापयेद्वीजं सुपुत्रे दापयेद्धनं । सुक्षेत्रे च सुपुत्रे च यक्षिप्तं नैव नश्यति ॥५६ अनृता छनधीयाना यत्र भैक्षचरा द्विजाः । तं प्रामं दण्डयेद्राजा चौरभक्तप्रदो हि सः ॥५७ अत्रियोहि प्रजा रक्षन् शस्त्रपाणिः प्रचण्डवत् । विजित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥५८ न श्रीः कुलक्रमायाता स्वरूपाल्लिखितापिया। खड्गेणाक्रम्य भुञ्जीत बीरभोग्या वसुन्धरा ॥५६