SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] आचारधर्मवर्णनम् । ६२६ षट्कर्माभिरतो नित्यं देवतातिथिपूजकः । हुतशेषन्तु भुञ्जानो ब्राह्मणो नावसीदति ।।३८ सन्ध्यानानं जपो होमः स्वाध्यायो देवतार्जनम् । वैश्वदेवातिथेयञ्च षट्कर्माणि दिने दिने ॥३६ प्रियो वा यदि वा द्वेष्यो मूर्ख: पण्डित एव वा। वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ।।४० दूराद्ध्वानं पथि श्रान्तं वैश्वदेवे उपस्थितम् । अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ।।४१ न पृच्छेगोत्रचरणं न स्वाध्यायव्रतानि च । हृदयं कल्पयेत्तस्मिन् सर्वदेवमयोहि सः ॥४२ नैकग्रामीणमतिथिं विप्रं साङ्गमिकं तथा । अनित्यं घागतो यस्मात्तस्मादतिथिरुच्यते ॥४३ अपूर्वः सुव्रती विप्रो ह्यपूर्वो वातिथिस्तथा । वेदाभ्यासरतो नित्यं त्रयोऽपूर्वा दिने दिने ॥४४ वैश्वदेवे तु संप्राप्ते भिक्षुके गृहमागते। उद्धृत्य वैश्वदेवार्थ भिक्षां दत्वा विसर्जयेत् ।।४५ यती च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ । तयोरन्नमदत्वा च भुक्त्वा चान्द्रायणञ्चरेत् ।।४६ यतिहस्ते जलं दद्याद्भक्षं दद्यात् पुनर्जलम् । तद्भक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ।।४७ वैश्वदेवकृतान् दोषान् शक्तो भिक्षुळपोहितुम् । नहि भिक्षु कृतान् दोषान् वैश्वदेवो व्यपोहति ।।४८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy