SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [प्रथमो पराशरस्मृतिः। कृते तु तत्क्षणाच्छापत्रेतायां दशभिदिनैः । द्वापरे मासमात्रेण कलौ सम्वत्सरेण तु ॥२७ अभिगम्य कृते दानं त्रेतास्वाहूय दीयते। द्वापर याचमानाय सेवया दीयते कलौ ॥२८ अभिगम्योत्तमं दानमाहूतञ्चैव मध्यमम् । अधर्म याच्यमानं स्यात् सेवादानञ्च निष्फलम ॥२६ कृते चाषिगताः प्राणास्त्रेतायां मांससंस्थिताः । द्वापरे रुधिरं यावत् कलावन्नादिषु स्थिताः ।।३० धर्मो जितो ह्यधर्मेण जितः सत्योऽनृतेन च । जिता भृत्यैस्तु राजानः स्त्रीभिश्च पुरुषा जिताः ॥३१ सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते तस्मिन् कलियुगोसदा ॥३२ युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः । तेषां निन्द्रा न कर्त्तव्या युगरूपाहिलते द्विजाः ॥३३ युगे युगे च सामर्थ्य शेषं मुनिविभाषितम् । पराशरेण चाप्युक्तं प्रायश्चित्तं प्रधीयते ॥३४ अहमद्येव तद्धर्ममनुस्कृत्य ब्रवीमि वः । चातुर्वर्ण्यसमाचारं शृणुध्वं मुनिपुङ्गवाः ! ॥३५ पाराशरमतं पुण्यं पवित्रं पापनाशनम् । चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥३६ चतुर्णामपि वर्णानामाचारो धर्मपालकः । आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥३७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy