________________
ध्यायः] धर्मलक्षणवर्णनमाह।
६२७ श्रुता ह्यते भवत्प्रोक्ताः श्रौतार्थास्तेन विस्मृताः। अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे ॥१६ सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे। चातुर्वण्यसमाचारं किञ्चित् साधारणं वद ॥१७ ब्यासवाक्यावसाने तु मुनिमुख्यः पराशरः। धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलश्च विस्तरात् ॥१८ शृणु पुत्र ! प्रवक्ष्येहं शृण्वन्तु अषयस्तथा ॥१६ कल्पे कल्पे क्षयोत्पत्तौ ब्रह्मविष्णुमहेश्वराः । श्रुतिः स्मृतिः सदाचारा निर्गतव्याश्च सर्वदा ॥२० न कश्चिद्वेदकर्ता च वेदस्मर्त्ता चतुर्मुखः । तथैव धर्म स्मरति मनुः कल्पान्तरान्तरे ॥२१ अन्ये कृतयुगे धास्त्रेतायां द्वापरे परे । अन्ये कलियुगे नृणां युगरूपानुसारतः ।।२२ रूपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमित्यूचुनमेकं कलौ युगे ॥२३ कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः । द्वापरे शाङ्खलिखितः कलौ पाराशरः स्मृतः ॥२४ त्यजेदेशं कृतयुगे त्रेतायां प्राममुत्सृजेत्। द्वापरे कुलमेकन्तु कर्तारञ्च कलौ युगे ॥२५ कृते सम्भाषणात् पापं त्रेतायाञ्चैव दर्शनात् । द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥२६