________________
पराशरस्मृतिः। [प्रथमोऽततस्ते ऋषयः सर्वे धर्मतत्त्वार्थकाङ्गिणः । भृषि व्यासं पुरस्कृत्य गता वदरिकाश्रमे ॥५ नानावृक्षसमाकीर्ग फलपुष्पोपशोभितम् । नदीप्रस्रवणाकीर्ग पुण्यतीयरलङ्कृतम् ॥६ मृगपक्षिगणाट्यञ्च देवतायतनावृतम् । यक्षगन्धर्वसिद्धश्च नृत्यगीतसमाकुलम् ॥७ तस्मिन्नृपिसभामध्ये शक्तिपुत्र पराशरम् । सुखासीनं महात्मानं मुनिमुख्यगणावृतम् ॥८ कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह । प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ।। अथ सन्तुष्टमनसाः पराशरमहामुनिः । आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः ।।१० व्यासः सुस्वागतं ये च ऋषयश्च समन्ततः । कुरालं कुशलेयुक्ता व्यासः पृच्छत्यतः परम् ।।११ यदि जानासि मे भक्ति स्नेहाद्वा भक्तवत्सल ! धर्म कथय मे तात! अनुग्राह्योह्यहं तव ॥१२ श्रुता मे मानवा धर्मा वाशिष्ठाः काश्यपास्तथा । गार्गेया गौतमाश्चैव तथा चौशनसाः स्मृताः ॥१३ अविष्णोश्च साम्बर्ता दाक्षा आङ्गिरसास्तथा। शातातपाश्च हारीता याज्ञवल्क्यकृताश्च ये ।।१४ कात्यायनकृता श्चैव प्राचेतसकृताश्च ये। आपस्तम्बकृता धाः शङ्खस्य लिखितस्य च ।। १५