SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ १२१२ · वृद्धहारीतस्मृतिः। [अष्टमो आरग्वधानि शिणि तथा नर्गुण्डिकानि च । नेपानि च कपित्थानि कार्पासरण्डकानि च ॥११५ अमेध्यानि सकीटानि दौर्गन्धानि तथैव च । असद्वाहानि चैत्यानि काकखट्वासनानि च ॥११६ देवालयानि योप्यानि तथोपकरणानि च । महिषोष्ट्रखरादीनां कारीषपीठकानि च ॥११७ अन्यानां पाकशेषाणि वर्जयेद्यज्ञकर्मणि । प्रदीप्यानि ततो ऽऽनाधं पच्यानियतमानसः ॥११८ चिन्तयन् परमात्मानं जपन्मन्त्रद्वयं तथा । शुद्ध हृद्यं तथा रुच्यं पश्चादभ्यन्तरं शुभम् ॥११६ निषिद्धानि च शाकानि फलमूलानि वर्जयेत् । अतिरूक्षञ्चातिदुष्टमतिरक्तश्च वर्जयेत् ॥१२० भावदुष्टं क्रियादुष्टं कालदुष्टं तथैव च । संसर्गदुष्टमपि च वर्जयेद्यज्ञकर्मणि ॥१२१ . रूपतो गन्धतो वाऽपि यच्चाभक्ष्यैः समम्भवेत् । भावदुष्टश्च यत्रोक्तं मुनिभिर्धर्मपारगैः ॥१२२ । आरनालश्च मद्यश्च करनिर्मथितं दधि । हस्तदत्तश्च लवणं क्षीरं घृतपयांसि च ॥१२३ हस्तेनोद्धृत्य यत्तोयं पीतं वक्तण बकदा । शब्देन पीतं भुक्तश्च गव्यं ताम्रण संयुतम् ।।१२४ क्षीरच लवणोन्मिनं क्रियादुष्टमिहोच्यते । एकादश्यां तु यच्चान्नं यच्चान्नं राहुदर्शने । सूतके मृतके चानं शुष्कं पर्युषितं तथा ॥१२५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy