SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ । तथा। ऽध्यायः ] सभावदुष्टादिद्रव्यभाण्डादीनां संशुद्धिवर्णनम् । १२११ दारूणां सन्त्यजेद्वाऽपि तक्षणं वा समाचरेत् । अश्मनामश्मभिर्ध्यात्वा गोवालैघर्षयेत्तथा ।।१०५ सूतके मृतके वाऽपि शुनादिस्पर्शने तथा । स्पर्शने वाऽप्यमक्ष्याणां सद्य एव परित्यजेत् । एवं संशोध्य भाण्डानि यज्ञार्थ याचयेद्धविः ॥१०६ सम्प्रोक्ष्याद्भिः शुचौ देशे धान्यं संशोधयेद् बुधः । अवहन्याच्छुभतरं गायन्ति मधुसूदनम् ॥१०७ संशोध्य तण्डुलान् पश्चादद्भिः संक्षालयेत्रिभिः । अम्भत्रिवारं वस्त्रेण शोधयित्वा घटान्तरे ॥१०८ कुशेनैव पवित्रेण तण्डुलान्-निर्षपेच्छुभान् । अन्तर्धाय कुशं तत्र मन्त्ररत्न मनुस्मरन् ॥१०६ पाचयेत्सपवित्रेण वाग्यतो नियतेन्द्रियः। ... उपविश्य शुभे कुण्डे वह्नि प्रज्वालयेत्ततः ॥११० अवैष्णवस्य शूद्रस्य पतितस्य तथैव च । पाषण्डस्याप्यशुद्धस्य गृहेष्वग्निं विवर्जयेत् ॥१११ सम्प्रोक्ष्य मन्त्ररत्नेन वहिं कुशजलैसिभिः ।.. यझियविमलैः काष्ठळजनेन प्रदीपयेत् ।।११२ .. सान्तर्धानमुखेनापि धमयित्वा प्रदीपयेत् । पालाशैर्खादिरैबिल्वैर्गोशकपिटकैरपि ॥११३. . अन्यैर्वा यज्ञियः काष्ठस्तृणैर्वा यझियः शुभैः। . वर्जयेन्मद्यदिग्धानि तथा वैभीतकानि च ॥११४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy