________________
१२०६
वृद्धहारीतस्मृतिः।
[ अष्टमोतदस्यानिकमिति मृचा सहिरण्यं घृतं तथा। तस्मिन् रायवतय इति दद्यादापोशने घृतम् ॥५२ ततः प्राणायाहुतयो होतव्याः परमात्मनि । अग्ने विवस्वदुषस इति पञ्चभिश्च यथाक्रमम् ॥५३ समुद्रा दूर्मीति सूक्त न घृतधाराः समाचरेत् । परोमात्रेति सूक्तेन भोजयेत्सश्रियं हरिम् ॥५४ तुभ्यं हिन्वान इत्यनेन वयः सर्व निवेदयेत् । इन्द्र पीवेत्यनेन दद्यादापोशमं पुनः ।।५५ प्रत आश्विनि पवमानेत्यूचा हस्तप्रक्षालनं चरेत् । सरस्वती देवयन्त इति (तिसृमिर्गण्डूषमेव च ॥५६ वृष्टिं दिवीशः तद्धारेति (द्वाभ्या) दवादाचमनं ततः। शिशु जिज्ञामिनमिति ऋचा मुखहस्तौ च मार्जयेत् ॥५७ दक्षिणावतामिति ऋचा दद्यात्ताम्बूलमुत्तमम् । स्वादुः पवस्वेति भृचा दद्यादाचमनं पुनः । आऽयं गौरिति सूक्ताभ्यां दद्यात् पुष्पाञ्जलिं ततः ।।५८ दीपनीराजयेत्पश्चाद् घृतसूक्तन वैष्णवः। यत इन्द्रेत्यादि षड्मिदिक्षु रक्षा पदापयेत् ।।५६ यहा देवानामिति सूक्तेन उपस्थानजपं चरेत् । तद्विष्णोरिति (च)द्वाभ्यां प्रणमेश्चैव भक्तितः॥६० गौरीमिमायेति ऋचा दद्यादाचमनन्ततः । सहस्रनामभिः स्तुत्वा पश्चाद्धोमं समाचरेत् ॥६१ प्रातरौपासनं हुत्वा तस्मिन्नग्नौ जनार्दनम् । ध्यात्वा संपूज्य जुहुयाद्वैष्णवैः प्रत्यूचं हविः ॥६२