________________
अध्यायः
१२०३
विष्णुपूजाविधिवर्णनम् । एवं द्रव्याणि निक्षिप्य तुलस्या च समर्पयेत् । सवितुश्चेत्यादि ऋचा दद्यादोदकं हरेः ।।२० श्रियेति पादेति ऋचा दद्यात् पादजलं तथा । भद्रन्ते हरतेत्यनेन हस्तप्रक्षालनं चरेत् ।।२१ वयः सुपर्णेति ऋचा मुखसम्माजमं तथा । आपो अस्मानिति ऋचा वक्तूगण्डूषमेव च ॥२२ हिरण्यदन्तेत्यनेन दन्तकाष्ठं निवेदयेत् । वृहस्पते प्रथमेति जिह्वालेखनमेव च ॥२३ आपयित्वा उ भेषजीरिति गण्डूषमाचरेत् । आपो हि ष्ठा इत्यनेन कुर्य्यादाचमनीयकम् ।।२४ मूर्धामव इत्यनेन तैलाभ्यङ्गं समाचरेत् । मूर्धानन्दीव इत्यनेन गन्धान केशेषु लेपयेत् ।। तद्धियस्तस्थौ केशवन्ते केशान् वै क्षालयेत्पुनः । श्रिये पृश्न(इ)ति ऋचा तद्वर्णोद्वर्तनादिकम् ।।२६ आपोयम्बः प्रथममिति सूक्त नाभ्यङ्गसूचनम् । कृत्वाऽदः स्नापयेत्सूक्त वैष्णवैर्गन्धवारिणा ।।२७ ततः पञ्चामृतर्गव्यैः स्नापयेत्तत्प्रकाशकैः । आप्यायस्वेत्यूचा क्षीरं दधिक्राव्णेति वैदधि ।।२८ घृतमामिक्षेति घृतं मधुवातेति वै मधु । तत्ते वयं यथा गोभिरित्यूचेक्षुरसं शुभम् ।।२९ एभिः पञ्चामृतैः स्नाप्य चन्दनच निवेदयेत् । श्रीसूक्तपुरुषसूक्ताभ्यां पुनः संस्थापयेद्धरिम् ॥३०