SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ध्यायः] विष्णुपूजाविधिवर्णनम् । १२०१ ॥ अष्टमोऽध्यायः॥ अर्थ विष्णुपूजाविधिवर्णनम् । हारीत उवाच । अथ वक्ष्यामि राजेन्द्र ! विष्णुपूजाविधि परम् ॥१ श्रोतं महर्षिभिः प्रोक्त वशिष्ठायैः पुरातनैः । वैखानसश्च भृग्वाद्यैः सनकाद्यैश्च योगिभिः ॥२ वैष्णवै वैदिकः पूर्वैयद्यदाचरितं पुरा। तत्ते वक्ष्यामि राजेन्द्र ! महाप्रियतमं हरेः॥३ . ब्राह्म मुहूर्ते उत्थाय सम्यगाचम्य वारिणा। ध्यात्वा हृत्पङ्कजे विष्णुपूजयेन्मनसैव तु ॥४ तं प्रत्तैवेति सूक्तेन बोधयेत्कमलापतिम् । .. वनस्पतेति सूक्तेन तूर्यघोषं निनादयेत् ॥५ कुर्यात्प्रदक्षिणं विष्णोरतोदेवेत्यनेन तु। तद्विष्णोरिति मन्त्राभ्यान्त्रिः प्रणम्याऽऽचरेत्ततः ॥६. कृतशौचस्तथाऽऽचान्तो दन्तधावनपूर्वकम् । स्नानं कुर्याद्विधानेन धात्रीश्रीतुलसीयुतम् ।।७ नारायणानुवाकेन कृत्वा तत्राघमर्षणम् । कृतकृत्यः शुचिर्भूत्वा तर्पयित्वा च पूर्ववत् ॥८ धृतोर्ध्वपुण्डूदेहश्च पवित्रकर एव च । प्रविश्य मन्दिरं विष्णोः संमार्जन्या विशोधयेत् ।।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy