________________
व्यायः] नानाविधोत्सवविधानवर्णनम्। ११६
भक्या वै देवदेवेशः परितुष्टो भवेद् ध्रुवम् । आस्तिक्ष्यः श्रद्दधानश्च वियुक्तमदमत्सरः ॥३१६ पूजयित्वा जगन्नाथं यावजीवमतन्द्रितः । इह भुक्त्या मनोरम्यान् भोगान् सर्वान् यथेप्सितान् ॥३१७ सुखन देहमुत्सृज्य जीर्णत्वच मिवोरगः । स्थूलसूक्ष्मात्मिकान्चेमां विहाय प्रकृतिन्द्रुतम् ॥३१८ सारूप्यमीश्वरस्याऽऽशु गत्वा तु स्वजनैः सह । दिव्यं विमानमारुह्य वैकुण्ठं नाम भास्करम् ।।३१६ दिव्याप्सरोगणैर्युक्तो दिव्यभूषणभूषितः। . स्तूयमानः सुरगणैर्गीयमानश्च किन्नरैः ।।३२० ब्रह्मलोकमतिक्रम्य गत्वा ब्रह्माण्डमण्डपम् । विष्णुचक्रण वे भित्वा सर्वानावरणान् घनान् ।।३२१ अतीत्य वीरजामाशु सर्ववेदसवां नदीम्। अभ्युद्गच्छद्रिव्यप्रैः पूज्यमानः सुरोत्तमैः ॥३२२ सम्प्राप्य परमं धाम योगिगम्य सनातनम् । यद्गत्वा न निवर्तन्ते तद्धाम परमं हरेः॥३२३ तद्विष्णोः परमं धाम सदा पश्यन्ति योगिनः । शीतांशुकोटिसङ्काशैः सर्वैश्च भवनैर्युतम् ॥३२४ आरूढयौवनैर्दिव्यैः पुंभिः स्त्रीभिश्च सङ्कुलम् । सर्वलक्षणसम्पन्नैदिव्यभूषणभूषितैः ॥३२५ अक्षरं परमं व्योम यस्मिन्देवा अधिष्ठिताः । इरावती धेनुमती व्यस्तभ्नासूयवासिनी ॥३२६