SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ - [ससमो ११६६ वृद्धहारीतस्मृतिः। गन्धैः पुष्पैधूपदीपैः फलैर्भक्ष्यनिवेदनैः। . कुसुमाक्षतदूर्षाप्रतिलसर्पिर्मधूदकम् ।।२८३ सर्षपाणि च निक्षिप्य अष्टाङ्गाध्यं निवेदयेत् । पादेषु चतुरो वेदान् मन्त्राण्योक्तेषु चास्तरे ॥२८४ नागराजञ्च दोलायां पीठे सर्वस्वरैरपि । व्यजनैवैनतेयञ्च सावित्री चामरे तथा ॥२८५ द्विनिशामर्चयेदिक्षु ऊवं ब्रह्म इस्पतिः। अधस्ताञ्चण्डिका रुद्रं क्षेत्रपालविनायकौ ॥२८६ विताने चन्द्रसूयौं च नक्षत्राणि ग्रहांस्तथा । वेदाश्च सेतिहासांश्च पुराणं देवता गणाः ॥२८७ भूधराः सागराः सर्वे पूजनीयाः समन्ततः । एवं सम्पूज्य दोलायां लक्ष्म्या सह जनार्दनम् ।।२८८ दोलयेच्च ततो दोलां चतुर्वेदेश्चतुर्दिनम् । सूक्तश्च ब्रह्मणोऽपत्यैः सामगानः प्रबन्धकः ॥२८६ नामभिः कीर्तयन् देवमेव मन्दं प्रदोलयेत्। स्त्रियं स्वलकृताः सर्वा गायन्त्यो विभुमच्युतम् ॥२६० चरितं रघुनाथस्य कृष्णस्य चरितं तथा । दोलयेयुर्मुदा भक्त्या दोलायां परमेश्वरम् ॥२६१ दोलाया दर्शनं विष्णोर्महापातकनाशनम्।। .. भक्तिप्रसादनं नृणां जन्ममृत्युनिकृन्तनम् ।।२६२ देवाः सर्वे विमानस्था दोलायामर्चितं हरिम् ! दर्शयन्ति ततः पुण्य दोलानामोत्सव हरेः ।।२८३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy