SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Er वायः] नानाविधोत्सवविधानवर्णनम्। अर्चयेज्जगतामीशं सर्वाभरणभूषितम् । पद्मां पद्मलयां लक्ष्मी कमला पद्मसम्भवाम् ।।२२८ पद्ममाल्यां पद्महस्तां पद्मनाभी सनातनीम् । प्रागादिषु तथा दिक्षु पूजयेत् वुसुमादिभिः ॥२२६ अनादीनीश्वरान् पूज्य नमस्कुर्वीत भक्तितः । ततो नीराजनं दत्त्वा श्रीसूक्तेन तु वैष्णवः।।२३० पुरतो जुहुयादग्नौ पायसं घृतमिश्रितम् । तन्मोणेव साहस्र सूक्ताभ्यां सकृदेव हि ॥२३१ हुत्वा मन्त्रेण साहस्रं दद्यात पुपाणि शाङ्गिणे । वैष्णवं वित्रमिथुनं पूजयेद्भोजयेत्तथा ।।२३२ इमां पाद्मी शुभामिष्टिं यः कुर्याद्वैष्णवोत्तमः । प्रभूतधनधान्याख्यो महाश्रियमवाप्नुयात् ।।२३३ सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति । लक्ष्म्यायुक्तो जगन्नाथः प्रत्यक्षः समभूद्धरिः ॥२३४ ददाति सकलान् कामानिह लोके परत्र च । पुण्यैः पवित्रदेवत्यैरिज्यते यत्र केशवः ।।२३५ तां पवित्रोष्टिमित्याहुः सर्वपापप्रणाशिनीम् । यत्ते पवित्रमित्यादि ऋग्भियंत्र यद्विजः॥२३६ प्रायश्चित्तार्थ सहसा शान्त्यर्थ वा समाचरेत् । एवं विधानमिष्टीनां सम्यगुक्तं महर्षिभिः ॥२३७ वैदिकेनैव विधिना यथाशक्त्या समाचरेत् । अवैदिकक्रियाजुष्टं प्रयत्नेन विवर्जयेत् ।।२३८ .
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy