SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ११६२ वृद्धहारीतस्मृतिः। [सालो क्षीराब्धौ शेषपर्य बुध्यमाने सनातने। अत्रोत्सव प्रकुर्वीत पञ्चरात्रं निरन्तरम् ।।२३६ नद्याश्च पुष्करिण्या वा तीरे रम्यतले शुचौ । मण्डपं तत्र कुर्वीत चतुर्भिस्तोरणैर्युतम् ।।२४० बितानपुष्पमालादि पताकाध्वजशोभितम् । अधुरार्पणपूर्वेण यज्ञवेदिञ्च कल्पयेत् ।।२४१ ऋत्विग्भिः सार्द्धमाचार्यों दीक्षितो मङ्गलस्वनैः । रथमारोप्य देवेशं छत्रचामरसंयुतम् ।।२४२ पठन्वैशाकुनान् मन्त्रान् यज्ञशाला प्रवेशयेत् । स्वस्तिवाचनपूर्वेण कुर्यात्कौतुकबन्धनम् ।।२४३ पूर्णकुम्भान् शस्ययुतान् पालिकाः परितः क्षिपेत् । अभ्यर्च्य गन्धपुष्पाद्यैः पश्चादावरणं यजेत् ।।२४४ वासुदेवमनन्तञ्च सत्यं यज्ञं तथाऽच्युतम् । महेन्द्र श्रीपतिं विश्व पूर्णकुम्भेषु पूजयेत् ।।२४५ पालिकाः सद्दिगीशांश्च दीपिकास्वथ हेतयः । तोरणेषु च चण्डाद्याः पूजनीया यथाक्रमम् ॥२४६ वेद्याश्च दक्षिणे भागे कुण्डं कुर्यात्सलक्षणम् । निक्षिप्याग्निं विधानेन इध्माधानान्तमाचरेत् ॥२४७ आचार्योपासानौ वा लौकिके वा नृपोत्तम!। आधानं पूर्ववत् कृत्वा पश्चात्कर्म समाचरेत् ॥२४८ प्रातः स्नात्वा विधानेन पूजयित्वा सनातनम् । प्रत्यूचं पावमानीभिर्जुहुयात्पायसं शुभम् ॥२४६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy