SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ वृद्धहारीतस्मृतिः । दशमं मण्डलं सर्व प्रत्यृचं जुहुयाद्धविः । तिलमिश्रेण साज्येन चरुणा गोघृतेन वा ॥ २१७ सर्वेश्च वैष्णवैः सूक्तैश्चतुर्भिश्चाष्टोत्तरं शतम् । नामभिश्च चतु तैस्तान सर्वान् वैष्णवान् यजेत् ॥२१८ पुष्पैरिष्ट्रा चावभृथं प्रसूनेष्टिश्च कारयेत् । होमं कर्तुमशक्तश्चेद्वेदेन नृपनन्दन ! ॥२१६ चतुर्भिवैष्णवैर्मन्त्रैः साहस्र ं वा पृथक् पृथक् । इमां भागवतीमिष्टिं यः कुर्याद्वैष्णवोत्तमः ॥२२० अनन्तगरुडादीनामयमन्यतमो भवेत् । पावमानैर्यदा ऋग्भिरिज्यते मधुसूदनः ॥२२१ तत्त्वावमानी मुनिभिः प्रोच्यते मधुसूदनः । 'यदा तु द्वादशी शुडा भृगुवासरसंयुता ॥ २२२ तस्यामेव प्रकुर्वीत पाद्मोमिष्टिं द्विजोत्तमः । महाप्रीतिकरं विष्णोः सद्योमुक्तिप्रदायकम् ॥२२३ तस्यां कृतायामिष्टयां तु लक्ष्मीभर्त्ता जनार्दनः । प्रत्यक्षो हि भवेत्तत्र सर्वकामफलप्रदः ||२२४ श्रीधरं पूजयेत्तत्र तन्मन्त्रेणैव वैष्णवः । सुवर्णमण्डपे दिव्ये नानारत्नप्रदीपिते ||२२५ उदयादित्यसङ्काशे हिरण्ये पङ्कजे शुभे । लक्ष्म्या सह समासीनं कोटिशीतांशुसन्निभम् ॥२२६ चक्रशङ्खगदापद्मपाणिनं श्रीधरं विभुम् । पीताम्बरधरं विष्णुं वनमालाविराजितम् ||२२७ ११६० [ सप्तस्मो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy