SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ११८२ वृद्धहारीतरमृतिः। सप्तमोपुष्पैः सम्पूजयेद्भक्या कुर्यादवभृथं नरः। इमां वैयूहिकीमिष्टिं सम्यक् प्राहुमहर्पयः॥१३१ प्रायश्चित्त मिदं प्रोक्तं पातकेषु महत्स्वपि । अनास्वपि च बिम्बानां शान्त्यर्थ वा समाचरेत् ॥१३२ प्रायश्चित्तं विशिष्टं स्याद्देयं प्रत्यूचकर्मसु । अनधीतः कथं कुर्याद्वैयूहीं वैष्णवीं द्विजः ।।१३३ प्रत्येकं शतमष्टौ च मन्त्रौस्तेषां यजेद्बुधः। सर्वत्रावभृथेष्टिश्च पुष्पयागश्च वैष्णवः ॥१३४ द्वयेन मूलमन्त्रेण कुर्वीत सुसमाहितः । वैष्णवान् भोजयेद्भक्त्या कर्मा ते सत्वसिद्धये ॥१३५ चतु:वैशतिसंख्यान्वै महाभागवतान् द्विजान् । एकं वा भोजयेद्विप्रं महाभागवते.त्तमम् । सर्व सम्पूर्णतामेति तस्मिन् संपूजिते द्विजे ॥१३६ . यः करोति सुभामिष्टिं वैयूहीं वैष्णवोत्तमः । अनन्तस्याच्युतानाञ्च विशिष्टोऽन्यतमो भवेत् ॥१३७ वैभवीमथ वक्ष्यामि सर्वपापप्रणाशिनीम् । पावनों सर्वलोकानां सर्वकामप्रदां शुभाम् ॥१३८ भगवजन्मदिवसे वारे सूर्यसुतस्य वा। स्वजन्मक्षेऽपि वा कुर्याद्वभनी मङ्गलाह्वयाम् ।।१३६ पूर्ववयभ्युदयं कुर्यादरापणपूर्वकम् । उपोष्य पूजयेद्विष्णु मान्याधानं समाचरेत् ।।१४०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy