________________
नानाविधोत्सवविधानवर्णनम् ।
अनन्तं विहगाधीशं शौनकाद्यैरुपासितम् । त्रिदशेन्द्रैविमानस्थैर्ब्रह्महद्रादिभिस्तथा ॥७७ तूयमानं हरि ध्यात्वा अर्चयेत्प्रयतात्मवान् । सर्वमावरणं पश्चादर्च्चयेत् कुसुमादिभिः ॥७८ प्रथमं महिषीसङ्घ लक्ष्मीभूभ्यो सनीलया । अनन्तरञ्च गरुडधर्मसेनादिभिस्तथा ॥७६ ऐश्वर्यज्ञानवैराग्याः पूजनीया यथाक्रमम् । सनन्दनश्च सनकः सनत्कुमारः सनातनः ॥८० औडुश्च सोमकपिलः पञ्चमो नारद स्तथा । भृगुर्विघनसोऽत्रि मरीचिः कश्यपोऽङ्गिराः ॥ ८१ पुलहः खायम्भुवो दाल्भ्यो वशिष्ठाद्यास्ततः क्रमात् । वशिष्ठो वामदेवश्च हारीतश्च पराशरः ॥ ८२ व्यास शुकश्च प्रह्लादः शौनको जनकस्तथा मार्कण्डेयो ध्रुवश्चैव पुण्डरीकश्च मारुतः ॥ ८३ रुक्माङ्गदः शिवो ब्रह्मा पूजनीया यथाक्रमम् । तथा लोकेश्वराः पूज्याः शङ्खचक्रादिहेतयः ॥ ८४ वेदाश्च साङ्गाः स्मृतयः पुराणं धर्मसंहिताः । राशयो ग्रहनक्षत्राः पूजनीया समं ततः ॥८५ एवं सम्पूज्य देवेश मग्न्याधानादिपूर्वकम् । द्वितीयं मण्डलमृचा जुहुयात्सभृतं चरुम् ||८ः ध्यात्वा वह्नौ वासुदेवं दद्यात्पुष्पाणि तत्र तु । वैवांश्च यजेत्तत्रावभृथं पुपयागकम् ॥ ८७
ऽध्यायः ]
११७०