________________
वृद्धहारीतस्मृतिः। [ सप्तमोइमान्नारायणेष्टिश्च सकृद्वाऽपि यजेत्तु यः। अनधीतवेदश्चेष्टिमयुतं मूलमन्त्रतः ॥६७ होमं पुष्पाञ्जलिं वाऽपि तथैवायुतमाचरेत् । पूजयित्वा ततो विप्रान्निष्ट्याः सम्यक्फलो भवेत् । भवाक्यपौरुषं सूक्तमष्टोत्तरशतं चरम् । हुत्वा चतुभिर्मन्ौश्च लभेदिष्टि न संशयः ॥६६
अथ वासुदेवेष्ठिरुच्यते । एकादश्यां कृष्णपक्षे समुपोष्य जनार्दनम् । समायेद्विधानेन रात्री जागरणान्वितः ॥७० द्वादश्यां प्रातरुत्थाय स्नायानद्यां तिलैः सह । द्वादशाणेन मनुना सिब्चे इष्टोत्तरं शतम् ।।७१ अभिमन्त्र्य जलं पश्चात्तुलसीमिश्रितं पिबेत् । सर्वकर्मस्वभिहित एतदेवाघमर्षणः ।।७२ तत्तत्कर्मणि तन्मनां यो जपेदघमर्षणे । नात्वा सन्तर्प्य देवन् कृतकृत्यः समाहितः ।।७३ गृहं गत्वाऽर्चयेहवं वासुदेवं सनातनम् । द्वादशार्णविधानेन करसूरीचन्दनादिभिः ॥७४ जातिकेतककुन्दाद्यः सुकृष्णतुलसीदलैः । सुधाब्धौ शेषपर्यके समासीनं श्रिया सह ॥७५ इन्दीवरदलश्यामं चक्रशङ्खगदाधरम् । सर्वाभरणसम्पन्न सदायौवनमच्युतम् ।।७६