________________
नानाविधोत्सव विधानवर्णनम् ।
तत्र वह्नि प्रतिष्ठाप्य इष्माधानान्तमाचरेत् । ओङ्कारः स्यात्परं ब्रह्म सर्वमन्त्रेषु नायकः || ३५ त्र्यक्षरं तत्त्रयाणाञ्च वेदानां बीजमुच्यते । अजायन्त ऋचः पूर्वमकाराद्विष्णुवाचकात् ॥३६ श्रीवाचकादुकारात्तु यजूंषि तदनन्तरम् । अजायन्त तयोः सङ्गात्सामान्यत्यान्यनेकशः : ।।३७ तयोर्दासो मकारेण प्रोच्यते सर्वदेहिनः । कारणं सर्ववर्णानामकारः प्रोच्यते बुधैः ॥ ३८ अकारो वै च सर्व वाक् सैषा स्पर्शोष्मभिः सदा । बौ सा व्यज्यमानाऽपि नानारूपा इति श्रुतिः ॥ ३६ अकार एव लुयन्ति सर्वमन्त्राक्षराणि हि । अकारो वासुदेवः स्यात्तस्मिन् सर्वं प्रतिष्ठितम् ॥४० मन्त्रो हि बीजं सर्वत्र क्रिया तच्छत्तिरुच्यते । मंन्त्रतन्त्रसमायुधतो यज्ञ इत्यभिधीयते ॥ ४१ मन्त्रः पुमान् क्रिया स्त्री च तदुक्तं मिथुनं स्मृतम् । तस्माद्यजूंषि तत्राणिचो मन्त्राणि चाध्वरे ॥ ४२ मन्त्रक्रिया मे मिथुनं यज्ञ उच्यते । मन्त्रतन्त्रांशमेते ऋग्यजुषी यज्ञकर्मणि ॥४३ उद्गीतं तु भवेत्साम तस्मात्तद्वैष्णवं त्रयम् । ऋग्भिरेव तमुद्दिश्य पुरोडाशं यजेद् बुधः ॥ ४४ ताभिरेव तु पुष्पाणि दद्यात्कर्मसु शाङ्गिणे । इन्द्राग्निवरुणादीनि नामान्युक्तानि तत्र तु । ज्ञेयानि विष्णो स्तान्यत्र नान्येषां स्युः कथञ्चन ॥ ४५
ऽध्यायः ]
११७३