________________
नानाविधोत्सवविधानवर्णनम् ।
यज्ञार्थमेव संसृष्टमात्मवर्ग चतुर्विधम् । यज्ञार्थात्कर्मणोऽन्यत्तु तदेषां व मंत्रन्धनम् ॥ १३ वहिर्जिह्वा भगवतो वेदा अङ्गाः सदाऽध्वरे । अस्थोनि समिधः प्रोक्ता रोमा दर्भाः प्रकीर्तिताः ॥१४
ऽध्यायः ]
११७१
स्वाहाकारः शिरः प्रोक्तं प्राणा एव हवींषि च । सर्ववेदक्रिया भोगा मन्त्राः पत्न्यः प्रकीर्तिताः ॥ १५ एवं यज्ञवपुर्विष्णुर्विदित्वेनं हुताशने । जुहुयाद्वै पुरोडाशं अज्ञात्वैवम्पतेदथ ॥ १३ यज्ञो यज्ञपति यज्वा जज्ञाङ्गां यज्ञवाहनः । यज्ञभृग्रद्यद्यज्ञी यज्ञभुग्यज्ञसाधनः ॥ १७ यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च । तस्मादेनं विदित्वेवं यज्ञं यज्ञेन पूजयेत् ॥१८ कोऽयं लोकोऽस्त्ययज्ञस्य कथं स्यात्परतः शुचिः । द्रव्ययज्ञास्तपोयज्ञा योगयज्ञः स्तथा परे ॥ १६
स्वाध्यायज्ञानयज्ञाश्च सदा कुर्वन्ति योगिनः ॥ २०
हरे भगतया कुर्यान्न साधनतया क्वचित् । साधनं भगवान् विष्णुः साध्याः स्युर्वेदिकाः क्रियाः ॥२१ शेपभूतश्च जीवस्य तद्दास्यैकफलाः क्रियाः । श्रुतिस्मृत्युदितं कर्म तदास्यं परिकीर्तितम् ||२२ नैसगिकं तथा कुर्यात्तद्दास्यंकं निकीर्तितम् । वैदिकेनैव मार्गेण पूजयेत्परमेश्वरम् ||२३