________________
Sध्यायः ]
रहस्यप्रायश्चित्तवर्णनम् ।
अकामतश्चरेद्धर्मं षण्मासात्पादमाचरेत् । मासत्रये द्विवर्ष स्यान्मासमात्रे तु वत्सरम् ॥ ३०८ कामतो द्विगुणं तत्र चरेदब्दादिकं व्रतम् । कर्द्धन्तु वत्सरात्पूर्ण द्वैगुण्याद्यमतः क्रमात् ॥ ३०६ कामतो वत्सरादूध्वं द्विगुणम्रतमाचरेत् । ऊर्ध्वं द्विवर्षात्तस्यापि मरणान्तिकमुच्यते ॥ ३१० यजनाध्यापनाद्दानात्पानाश्च सह भोजनात् । सद्य एव पतत्यस्मिन् पतितेन सहाऽऽचरन् ॥३११ तत्राप्यकामतस्त्वर्थं 'कामतः पूर्णमाचरेत् । षण्मासे वत्सरेऽप्यत्र द्विगुणं त्रिगुणं स्मृतम् ॥३१२ ऊ तु निष्कृतिर्न स्याद् भृग्वग्निपतनं विना । द्वितीयस्य तृतीयस्य नेष्यते मरणान्तिकम् || ३१३ अर्द्ध पादं समुद्दिष्टं कामतो द्विगुणं तथा । ब्रह्मकूर्चोपवासेन चतुर्थस्य विनिष्कृतिः ॥ ३४ पवमस्य न दोषः स्यादिति धर्मविदो विदुः । अन्येषामपि संसर्गात्प्रायश्चित्तं प्रकल्पयेत् ||३१५ पतनीयेषु नारीणां मरणान्तिकमुच्यते । अकामतश्चरेद्धर्मत्रतं पृथु यथोदितम् ॥ ३१६ व्यभिचारे तु सर्वत्र कामतो मरणाच्छुचिः । अकामतश्चरेत्पूर्णं प्रातिलोम्यं गता सती ॥३१७ अर्द्ध मेवाऽऽनुलोम्येषु तथैव भ्रणहादिषु । यतिश्च ब्रह्मचारी च गत्वा खियमकामतः ॥ ३१८
११५७