SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ११५४ वृद्धहारीतस्मृतिः । मरणाच्छुद्धिमाप्नोति जीवेद्यदि विशुध्यति । मद्यस्य प्रतिषिष्यथं घृतं क्षीरमथाम्बु वा ||२७६ प्राशयित्वाऽग्निवर्णन्तु तद्वत्तां शुद्धिमाप्नुयात् । दत्त्वा सुवर्णं विप्राय गाव दत्त्वा विशुध्यति || २७७ क्षत्त्रविट्शूद्रजातीनां सुवर्ण तु यथाक्रमम् । पादोनमर्द्ध पादं वा चरेद् व्रतं यथोक्तवत् ॥ २७८ समेष्वधं प्रकुर्वीत कामतः पूर्णमाचरेत् । कामतः स्वर्णहारी तु राज्ञे मुसलमर्पयेत् ॥ २७६ स्वकर्म ख्यापयंश्चैव हतो मुक्तोऽपि वा शुचिः । राज्ञा यदि विमुक्तः स्यात् पूर्ववद् व्रतमाचरेत् ||२८० आत्मतुल्यसुवणं वा दद्याद्विप्रस्य तुष्टिकृत् । तत्समव्यतिरिक्तेषु पादमेव चरेद् व्रतम् ||२८१ चान्द्रायणं पराकं वा कुर्यादल्पेषु सर्वशः । द्रव्यप्रत्यर्पणं कर्तुस्तन्मूल्यद्रव्यमेव वा ॥ २८२ व्रतं समाचरेत् कृत्वा यथा परिषदीरितम् । बलाच्छौय्र्येण वा स्नेहाद् व्यवहारादिनाऽपि वा ॥ २८३ समाहरति यद् द्रव्यं तत्सर्वं स्तेयमुच्यते । देशं कालं वयः शक्ति पापश्वावेक्ष्य सर्वतः ॥ २८४ प्रायश्चित्तं प्रदातव्यं धर्मविद्भिर्मनीषिभिः । भगिनीं मातरं पुत्र स्नुषामाचार्य योषितम् ॥ २८५ अकामतः सकृद् गत्वा चरेत् पूर्णत्रतं नरः । पश्चिमाभिमुखां गङ्गां कालिन्द्या सह सङ्गताम् ||२८६ [ षष्ठो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy