________________
ऽध्यायः ]
रहस्यप्रायश्चित्तवर्णनम् ।
अनृतं मद्यमांसञ्च परस्त्रीस्वापहारणम् । विशिष्टस्यापि शूद्रस्य पातित्यं मनुरब्रवीत् ॥२७० सुरा वै मलमन्नादेः पापाद्वै मलमुच्यते । तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ २७१ चकाराद्विशिष्टस्य शूद्रास्यापि पूर्ववचनात् यत्तु राजन्यवैश्ययोगवाज्यादिमद्यस्याप्रतिषेधस्तन्न मतं स्यात् न च निषिद्धादीनां सर्वा मता । विशिष्ट शूद्रस्यापि मद्यमांस निषिद्धत्वात् । इज्याध्ययनादिश्रौतस्मार्त कर्मार्हस्य | क्षत्त्रविशिष्टस्यापि तद्वद्वेश्यस्य च प्रतिषेधात् न तु प्रायश्चित्ताल्पत्वप्रतिपादनपराण्येव नत्वप्रतिषिद्धपराणि ब्राह्मणस्य मरणान्तिक मुपदिष्टं राजन्यवैश्यविशिष्टशूद्राणाम् पूर्णपादोनार्डो नत्रतचर्या उक्ता । सुरायान्तु सर्वेषां द्विजाणां मरणान्तिकमेव शूद्रस्य गोसहस्रदानं वा परिपूर्णव्रतं वाऽऽचरितव्यम् नतु मरणान्तिकम् ।
अग्निवर्णा सुरां पीत्वा सुरायास्तु द्विजातयः । मरणाच्छुद्धिमृच्छन्ति शूद्रस्तु व्रतमाचरेत् ॥ २७२ राजन्यवैश्यौ तु मद्य पीत्वा चरेतां व्रतमेव च । शूद्रस्त्वर्थवरेत्तद्वद् ब्राह्मणो मरणाच्छुचिः ॥ २७३ यक्षरक्षः पिशाचान्न मद्यं मांसं सुरासमम् । नात्तव्यमेव विप्रेण भुक्त्वा तु ज्वलनं विशेत् ॥ २७४
मद्यं वाऽपि सुरां वाऽपि यः पिबेद् ब्राह्मणाधमः । अभिवर्णन्तु गोमूत्रं पिवेदञ्जलिपभ्वकम् || २७५
७३
११५३