________________
११५२
वृद्धहारीतस्मृतिः ।
पृष्टुं सूतिकाष्ट मुद (या) क्यादृष्टमेव च । पाषण्डभण्ड चण्डालवृषलीपतिवीक्षितम् || २५६ दत्त्वावशिष्टं यक्षाणां भूतानां रक्षसां तथा । उद्धृत्य वामहस्तेन वक्त्रेणैव पिबेदपः ॥२६० यच्चान्नमाद्यैकोद्दिरमुच्छिष्टमगुरो रपि । हरेरनर्पितं भुक्त्वा न भुक्त्वा देवतार्पितम् ॥२६१ कामतस्तु चरेद्धर्मश्चरेद्वेदमकामतः ।
अकामतः सकृजग्ध्वा चरेच्चान्द्रायणव्रतम् || २६२ म्लेच्छचण्डालपतितपाषण्डा (न) नामकामतः । उट्क्यासह भुक्त्वा च चरेद्धर्मत्रतं द्विजः ॥ २६३ चण्डालकूप भाण्डस्थं मद्यभाण्डस्थमेव च । पीत्वा समाचरेत्पापं कामतोऽद्धं समाचरेत् ॥ २६४ मद्यगन्धं समाघ्राय कामतो व्रतमाचरेत् । अकामतस्तु निष्ठीव्य चरेदाचमनं द्विजः ॥ २६५ अभिमन्त्रय जलं प्राश्य सावित्र्या च समन्वितम् । वृथा मांसाशनं चैव भावदुष्टादि भक्षणे ॥ २६६ चरेत्सान्तपनं कृच्छ्र' चान्द्रायणमथापि वा । कामतस्तु चरेत्पादमभ्यासे पूर्णमाचरेत् ॥ २६७ कामतस्तु सुरां पीत्वा सततं चाग्निसन्निभम् । गोमूत्रमम्बु वा पीत्वा मरणाच्छुद्धिमृच्छति ॥ २६८ सुरायाः प्रतिषेधस्तु द्विजानामेत्र कीर्तितः । विशिष्टस्यापि शूद्रस्य केचिदिच्छन्ति सूरयः || २६६
[ षष्ठो