SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ज्यायः] वैष्णवेष्टिक्रियातःश्राद्धपर्यन्तविधिवर्णनम्। ११३६ रात्रौ निमन्त्र्य सम्पूज्य तैः साद्धं विजितेन्द्रियः। प्रातरुत्थाय तैर्गत्वा नदी पुग्यजलान्विताम् ।।१२० धात्रीफलानुलिप्ताङ्गो निमज्ज्य विमले जले । जपन् वै वैष्णवान सूक्तान स्नानं कुर्वीत वै द्विजः ॥१२१ वैकुण्ठतर्पणं कुर्यात् कुसुमैः सतिलाक्षतैः । गृहं गत्वाऽर्चयेद्देवं सर्वावरणसंयुतम् ॥१२२ सुगन्धपुष्पैर्विविधैर्गन्धैश्च दीपकैः । नैवेद्य भक्ष्यभोज्यश्च फलैनीराजनेरपि ॥१२३ अर्चयित्वा विधानेन मूलमन्त्रेण वैष्णवः। पुरतोऽग्निं प्रतिष्ठाप्य इध्माधानं समाचरेत् ।।१२४ चरुं सशर्कराज्यन्तु जुहुयाद्वहिमण्डले। प्रत्यचं वैष्णवैः सूक्तैः केशवाद्यश्च नामभिः ॥१२५ हुवाऽय वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम् । गवाज्येनैव जुहुयाञ्चतुर्भि वैष्णवोत्तमः ।।१२६ वैकुण्ठपार्षदं हुत्वा होमशेष समापयेत् । अग्नेरुत्तरभागेन गोमयेनानुलिप्य च ॥१२७ आस्तीर्य दर्भान् प्रागग्रान् चतुर्विशतिसंख्यया । उदक्प्रावणिकेनैव केशवादिक्रमेण तु ॥१२८ अभ्यर्च्य गन्धपुष्पाद्य स्तत्तन्मन्त्रैः पृक् पृथक् । मध्वाज्यतिलमिश्रेण चरणा पायसेन वा ॥१२६ कुशेषु तेषु दद्यात्तु पिण्डान् तीर्थ विधानतः । स्वाहाकारेण मनसा केशवादीन् क्रमेण वै॥१३०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy