SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ वृद्धहारीतस्मृतिः। [षष्ठो परमावगतेनापि कर्तव्यं हि द्विजन्मनः । द्रव्यालाभेऽपि होतव्यं यज्ञियैश्च प्रसूनकैः ।।१०६ . शूद्रस्यापि विशिष्टस्य परमैकान्तिनस्तथा । स्वाहाकारं च वेदं च हित्वा पुष्पैर्यजेच्छुभैः ॥११० तूष्योमद्भिः परिषिच्य परिम्तीर्य कुशैस्तिलैः । नामभिः केशवाद्यैश्च तथा सकर्षगादिभिः ॥१११ मत्स्यकूर्मादिभिश्चैव वेदार्थोक्तप्रबन्धकैः । नमोऽन्तमेव जुहुयात् स्वाहाकारं विवर्जयेत् ॥११२ अमन्त्रकं प्रकुर्वीत शूद्रः सर्वमशेषतः। दग्ध्वा शरीरं विधिवद्वष्णवस्य महात्मनः ॥११३ यन्मरणं तदवभृथमिति मत्वा विचक्षणः । नानाथं पुण्यसलिलं ब्रजेद्भागवतैः सह ॥११४ अनुलिप्य घृतं सर्व गोमयं वा तिलैः सह । दर्वाङ्गरक्षाजैः स्नानं कुर्वीत मङ्गलम् ॥११५ स्वगृमोक्तविधानेन तस्य पुत्राः स्वर.ोत्रजाः । पिण्डोदकप्रदानाद्य सर्वमप्योर्ध्व देहिकम् ॥११६ निर्वयं विधिना धर्म सामान्येनावशेषतः। विशिष्टं परमं धर्म नारायणबलिं ततः॥११७ प्रकुर्याद्वैष्णवैः साद्धं यथाशास्त्र मतन्द्रितः । निमन्त्रयेत्तु पूर्वेधु ब्राह्मणान् वैष्णावान् शुभान् ॥११८ चतुर्विशतिसंख्याकान् महाभागवतोत्तमः । केशवादोन समुद्दिश्य चतुर्विंशति वैष्णवान् ॥११६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy