SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ११३४ वृद्धहारीतस्मृतिः । यज्ञरूपं हरिं ध्यायन् प्रत्यचं वेदसंहिताम् । होमः समाप्यते यावत्तावद्वै दीक्षितो भवेत् ॥ ६६ जुहुयाद्वै गार्हपत्यो सोऽग्निमभ्यर्च्य भूपते ! | अभिरक्षणमप्युक्तं यावदिष्टिः समाप्यते ॥७० विशिष्टान् वैष्णवान् विप्रान् भोजयेत्प्रतिवासरम् । मृत्विजश्च पठेत्तावञ्चतुर्मन्त्रान् समाहितः ॥७१ यजेदवभृथेष्टं च पावमान्यैश्च वैष्णवैः । अन्ते संपूजयेद्विप्रान् वासोऽलङ्कारभूषणैः ॥७२ ऋत्विजश्च गुरुं चैव पूजयेश्च विशेषतः । एवमिष्टन्तु यः कुर्याद्वैष्णवीं वैष्णवोत्तमः ॥७३ ऋतूनां दशकोटीनां फलं प्राप्नोत्यसंशयः । यस्मिन्देशे वैष्णवेष्ट्या पूजितो मधुसूदनः ॥७४ दुर्भिक्षरोगामिभयं तस्मिन् नास्ति न संशयः । अशक्तः सर्वदेवेन कर्त्तुमिष्टं च वैष्णवीम् ॥७५ सर्वैश्च वैष्णवैः सूक्तेर्जुहुयात्प्रत्यृचं हविः । तैरेव पुष्पाञ्जलिं च कुर्यादिष्ट्याः प्रपूर्त्तये ॥७६ अथवा मूलमन्त्रं तु लक्षं जप्त्वा हुताशने । अयुतं जुहुयात्तद्वत्पुष्पाणि च सनातने ॥७७ इष्टिः संपूर्णतां याति सर्ववेदाः सदक्षिणाः । एवमिष्टं प्रकुर्वीत प्रत्यब्दं वैष्णवोत्तमः ॥७८ तुष्ट्यर्थं वासुदेवस्य वंशस्योज्जीवनाय च । वृध्यर्थमपि लोकस्य देवतानां हिताय च ॥ ७८ [ षष्ठो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy