SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ [षष्ठो ११३२ वृद्धहारीतस्मृतिः। इच्छन्ति त्वेत्य ध्यानेन प्रत्यूचञ्च द्वयेन च। अष्टोत्तरशतं जुहुयात्कुसुमैरेव वैष्णवः ।।४७ हिरण्यगर्भस तेन तथैवाऽऽज्यं द्विजोत्तमः । पुनरेव तु होतव्यं हुत्वा वैकुण्ठपार्षदम् ॥४८ होमशेषं समाप्याथ वैष्णवान् भोजयेदपि । सर्वयज्ञसमाप्तौ तु पुष्पयागं समाचरेत् ।।४६ सर्व सम्पूर्णतामेति परितुष्टो जनार्दनः । एवं महोत्सवं कुर्यात्प्रत्यब्दं परमात्मनः ॥५० अथ नित्योत्सवे पूजा होमश्चात्र विधीयते । शिविकायां निवेश्येशं पूजयित्वा विधानतः ॥५१ तत्र चामरवादित्रभृङ्गारै स्तालवृन्तकैः । दीपिकाभि रनेकाभिदूर्वाग्रकुसुमाक्षतैः ॥५२ फलमोदकहस्ताभिर्नारीभिः समलङ्कृतम् । देवस्याऽऽयतनं रम्यं त्रिः प्रदक्षिणमाचरेत् ॥५३ तत्तन्मन्त्रान् जपेदिक्षु सर्वासु द्विजपुङ्गवाः। बलिञ्च निक्षिपेतासु देवानुद्दिश्य पूर्वतः ।।५४ प्राची विश्वजिते सूक्त मग्ने तव अनन्तरम् । याम्ये परे इमां सन्तु मोषुणस्तु तदन्तरम् ॥५५ यश्चिद्धति प्रतीच्यान्तु विहिहोत्येत्यनन्तरम् । स सोम इति सौम्यान्तु कद्रुद्रायेत्यनन्तरम् ।।५६ प्रजापति तथा चोर्द्ध मधश्च पृथिवीं क्षिपेत् । एवं दिक्षु बलिं दत्त्वा परिणीय जनार्दनम् ॥५७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy