SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ११३० वृद्धहारीतस्मृतिः ततः स्यन्दनमानीय पताकाच्छत्रसंयुतम् । श्वेतैः सलक्षणरुह्ययानमश्वैः प्रकल्पितैः ॥ २५ वस्त्रपुष्प मणिस्वर्णभूषितं तत्र चित्रितम् । तस्मिन् मृदुतरश्लक्ष्णपर्यङ्कं स्थाप्य देशिकः ॥२६ तस्मिन्निवेश्य देवेशं देवीभ्यां सहितं हरिम् । अर्श्वयेद् गन्धपुष्पाद्यैर्धूपदीपादिभिस्तथा ॥२७ रथचक्रेषु वेदांश्च धर्मादीनपि पूजयेत् ! आधारशक्तिमाधारे ईषादण्डे पुराणकम् ॥२८ छन्दांसि कूवरे सप्त पर्यङ्क भुजगाधिपम् । हयेषु चतुरो मन्त्रान्योक्त्रेष्वङ्गानि षट् च वै ॥२६ ध्वजे पताकराजानं छत्रेऽनन्तं स्वराणि तु । तालवृन्ते चामरे च अक्षराणि च पूजयेत् ||३० अभ्यवयवं रथं दिव्यं पश्चात् संपूजयेद्धरिम् । दिक्पालावरणांश्चैव मर्चयेद्दिक्षु सर्वतः ॥ ३१ जीमूतस्येति सूक्तेन तत्र पुष्पाञ्जलिं चरेत् । मरुत्वानिन्द्रेति सूक्तेन कृत्वा नीराजनं ततः ।। ३२ वनस्पतीति सूक्तेन वादयेत्पटहादिकम् । गीतैर्नत्यैश्च वादित्रैः पुण्यस्तोत्रमनोहरैः ||३३ हयैर्गजैः स्यन्दनैश्च परितस्तर्पयेत्प्रभुम् । ऋत्विजः पुरतो वेदानङ्गानि च जपेत्तदा ॥ ३४ गायेत् सामानि भक्त्या वै पुरतः पार्श्वतो हरेः । कुङ्कुमैः कुसुमै लाजै र्विकिरन्वै समन्ततः ॥ ३५ [ षष्ठो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy