________________
११२६
वृद्धहारीतस्मृतिः ।
तिलैश्च जुहुयाद्वहौ मधुशर्करमिश्रितैः । प्रत्यचं पुरुषसूक्तेन श्रीसूक्तेनापि वैष्णवः ।। ५५३
सहस्रं मूलमन्त्रेण तन्मन्त्रोणापि वै द्विजः । सहस्रं वा शतं वाऽपि शक्त्या च जुहुयाद् बुधः ॥५५४ यज्ञे यज्ञमिति ऋचा दीपान्नी राजयेत्ततः । रात्रौ दोलावेनं कुर्याद्वैष्णवैर्द्विजसत्तमैः ।। ५५५ मासान्ते भोजयेद्विप्रान् वासोऽलङ्कारभूषणैः । एवं सम्पूजिते तस्मिन् प्रसन्नोऽभूज्जनार्दनः ॥ ५५६ ददाति स्वपदं दिव्य योगिगम्य' सनातनम् । फाल्गुन्या पौर्णमास्यां वै उदिते च निशाकरे ।। ५५७ उपोष्य विधिवद्भक्ति पूजयेद्वैष्णवोत्तमः । तिलैश्य करवीरैश्च कर्णिकारैश्च पाटलैः ॥५५८
[ पश्वमो
कुन्दसहस्रकुसुमैर्यजेत् तं कमलापतिम् । विष्णुसूक्तैः प्रत्यृचं च चरुणाऽज्येन मन्त्रतः || ५५६ ब्रह्मा देवानामनेन दीपानीराजयेत्ततः ।
प्रसन्नो नित्यमनेन उपस्थाय सनातनम् । वैष्णवान् भोजयेच्छक्त्या भुञ्जीयाद्वाग्यतः स्वयम् ||५६० एवं सम्पूज्य देवेशं तस्यां रात्रौ सनातनम् । षष्टिवर्षसहस्रस्य पूजामाप्नोत्यसंशयः ॥५६१ एवं सम्पूजयेद्विष्णुं निमित्तेषु विशेषतः । यथाकालं यथावणं यथाशक्त्या यथाबलम् ||५६२ यथोक्तपुष्पालाभे तु तुलस्या वै समर्थयेत् ।