SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधानवर्णनम् । ११२५ रात्रौ होमं प्रकुर्वीत तिलै हिभिरेव वा। सर्ववेदेष्वशक्तस्तु होमकर्मणि वैष्णवः ॥५४२ वैष्णवैरनुवाकैर्वा प्रत्यहं जुहुयाद् बुधः । यजुषाऽपि तथा साम्नां शक्त्या पुष्पाञ्जलिं चरेत् ॥५४३ अशक्तो यस्तु वेदेन प्रतिवासरमच्युतम् । मूलमन्त्रोण साहस्र दद्यात् पुष्पाञ्जलिं द्विजः॥५४४ तेनैव जुहुयाद्भक्त्या सहस्र वह्निमण्डले । अथवा रघुनाथस्य चारित्रेण महात्मनः ॥५४५ प्रतिश्लोकेन पुष्पाणि दद्यान्मासं निरन्तरम् । अधःशायी ब्रह्मचारी सकृद्भोजी भवेद्विजः॥५४६ मासान्ते तु विशेषेण पूजयेद् वैष्णवान् द्विजान् । एवमभ्यय॑ गोविन्दं धनुर्मासे निरन्तरम् ॥५४७ दिने दिने वैष्णवेष्ट्या फलं प्राप्नोत्यसंशयः । यं यं कामयते चित्ते तं तमाप्नोति पुरुषः ॥५४८ महद्भिः पातकैर्मुक्तो विष्णुलोके महीयते । ततोमास्युदिते भानौ मासमेकं निरन्तरम् ॥५४६ स्नात्वा नद्या तडागे वा तर्पयेत्पतिमच्युतम् । अर्चयेन्माधवं नित्यं तन्मणैव तत्र वै ॥५५० मन्त्ररत्नेन वा नित्यं माधवीचूतचम्पकैः । मण्ड(क)पानि विचित्राणि शर्कराज्ययुतानि च ॥५५१ शाल्यन्न दधिसंयुक्तं मोदकांश्च निवेदयेत् । वैष्णवैः पावमानैश्च कुर्यात् पुष्पाञ्जलिं ततः ।।५५२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy