SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम्। ११२३ रक्तश्च करवीरैश्च कुमुदेन्दीवरादिभिः । मन्त्ररत्नेनार्चयित्वा पायसान्नं निवेदयेत् ॥५२० . यतश्च गोपा इत्यादि दश सुक्तान्यनुकमात् । पुष्पाणि दद्याद्भत्त्या वै प्रत्यूचं वैष्णवोत्तमः ।।५२१ सहस्रं शतवारं वा मन्त्रेणापि यजेत्ततः । पश्चाद्धोमं प्रकुर्वीत तिलैः कृष्णैः सशर्करैः ।।५२२ वैष्णवैरनुवाकैश्च मन्त्ररत्नेन मन्त्रवित् । वैकुण्ठपार्षदं हुत्वा शेषं कर्म समाचरेत् ॥५२३ नीराजनं ततो दद्यादयं गौरित्यनेन तु । इति वा इति सूक्तेन उपस्थाय जनार्दनम् ।।५२४ सहस्रनामभिः स्तुत्वा वैष्णवान् भोजयेत्ततः। गुरु सम्पूजयेद्भक्त्या भुञ्जीत तद्धविः सकृत् ।।५२५ अधःशायी ब्रह्मचारी जपेद्रात्रौ समाहितः। एवं सम्पूज्य देवेशं तस्मिन्नहनि वैष्णवः ।।५२६ त्रिकोटिकुलमुद्धृत्य वैष्णवं पदमाप्नुयात् । द्वादश्यामपि तस्यां वै यज्ञवाराहमच्युतम् ।।५२७ वैष्णव्या चैव गायत्र्या पूजयेत् प्रयतात्मवान् । महिषाख्यं घृताक्त वैधूपं दद्यात् प्रयत्नतः ॥५२८ दद्यादष्टाङ्गदीपं च गवाज्येन च वैष्णवः। सशर्कराज्यं सूपान्नं मोदकान् कृसरं तथा ॥५२६ इक्षुदण्डानि रम्याणि फलानि च निवेदयेत् । प्र ते महीति सूक्तेन दद्यात् पुष्पाणि भक्तिमान् ॥५३०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy