SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ११२० वृद्धहारीतस्मृतिः। [पञ्चमो षडक्षरेण मन्त्रेण भक्त्या सम्पूजयेद्धरिम् । वसुदेवं नन्दगोपं बलभद्रञ्च रोहिणीम् ॥४८७ यशोदां च सुभद्रां च मायां दिक्षु प्रपूजयेत् । प्रह्लादादीन् वैष्णवांश्च तथा लोकेश्वरानपि ।।४८८ धूपं दीपञ्च नैवेद्य ताम्बूलञ्च समर्पयेत् । अनूनमिति सूक्तेन भक्त्या नीराजनं तथा ।।४८६ शन्न इत्यादिसूक्त श्च दद्यात् पुष्पाणि वैष्णवः । दशाक्षरेण मन्त्रोण पूजयेत् पुरुषोत्तमम् ॥४६० सहस्रनामभिः स्तुत्वा शय्यायां विनिवेशयेत् । गीतं नृत्यञ्च वाद्यञ्च यथा शक्त्या च कारयेत् ॥४६१ ततः प्रभातसमये सन्ध्यामन्वास्य वैष्णवः । दशाक्षरेण मन्त्रेण तुलसीचन्दनादिभिः ।।४६२ सम्पूज्य वैष्णवैः सूक्तः कुर्यात् पुष्पाञ्जलिं ततः । मन्त्रोण जुहुयादाज्यं सहस्रं हव्यवाहने ॥४६३ ममान इति सूक्ताभ्यां जुहुयात्पायसं ततः । परोमाोति सूक्त ने चरुतिलविमिश्रितम् ।।४६४ सर्वश्च भगवन्मन्ौरेकैकामाहुतिं यजेत् । नामभिः केशवाद्यैश्च तथा सङ्कर्षणादिभिः ॥४६५ वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् । ततो मङ्गलवादिौ योनै योक्तश्च चामरैः ॥४६६ लाजै हरिद्राचूर्णैश्च गन्धैः पुष्पैः सुगन्धिभिः । मुदा विकीरयन् सर्वे बालवृद्धाश्च मध्यमाः ।।४६७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy