SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ १११८ वृद्धहारीतस्मृतिः । कुशप्रसून दूर्वाग्रपुण्डरीककदम्बकैः । मूलमन्त्रेण श्रीविष्णु गायत्र्या च समर्च्चयेत् ||४६६ सत्येनोत्तमसूक्तेन ग्भिः पुष्पाञ्जलिं यजेत् । मन्त्रेणाष्टोत्तरशतं तुलसीपल्लवै स्तथा ॥ ४६७ पश्चाद्धोमं प्रकुर्वीत विष्णुपूक्तैः सुपायसम् । मन्त्ररत्नेन जुहुयादाज्यमष्टोत्तरं शतम् ||४६८ सशर्करं पायसान्नमपूपान्वि निवेदयेत् । विश्वजितेति सूक्तेन कुर्य्यान्नीराजनं ततः ॥४६३६ भोजयेद्वैष्णवान् विप्रान् पूजयेच्च विशेषतः । सर्व्वान् कामानवाप्नोति हयमेधायुतं लभेत् ||४७० प्राजापत्यर्क्षसंयुक्ता नभः कृष्णाष्टमी यदा । नभस्यैव भवेत्सातु जयन्ती परिकीर्तिता ॥ ४७१ तस्यां जातो जगन्नाथः केशवः कंसमर्दनः । तस्मिन्नुपोष्य विधिवत्सर्वपापैः प्रमुच्यते ।।४७२ अष्टमी रोहिणीयोगो मुहूर्ते वा दिवानिशम् । मुख्यकाल इतिख्यात स्तत्र जातः स्वयं हरिः । मासद्वये यद्यलाभे योगे तस्मिन् दिवा निशि ॥ ४७३ नवमी रोहिणीयोगः कर्तव्यो वैष्णवैर्द्विजैः । रात्रियोगस्तु बलवान् तस्यां जातो जनार्दनः || ४७४ तिलेन वै भवान्ते च पारणा यत्र चोच्यते । यामत्रयवियुक्तायां प्रातरेव हि पारणा ॥ ४७५ [ पञ्चमो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy