________________
१११६ वृद्धहारीतस्मृतिः। [पञ्चमी
एवं त्रिरात्र कुर्वीत राघवाणां विधानतः । महोत्सवं जन्मभेषु प्रत्यब्दं चैत्रमासिके ॥४४४ चतुर्थेऽह्नि तथा नद्यां कुर्यादवभृथं द्विजः । वैष्णवैरनुवाकैश्च रामनामभिरेव च ॥४४५ चरितं रघुनाथस्य जपन्नवभृतं चरेत् । देवान् पितृ श्च सन्तर्प्य गृहं गत्वाऽर्च येत्प्रभुम्॥४४६ कुर्यादवभृथेष्टिञ्च चरुणा पायसेन वा। अस्य वामेति सूक्तेन परोमात्रेत्यनेन च ॥४४७ . प्रत्यूचं जुहुयात्पश्चान्मन्त्रेण शतसंख्यया। हुत्वा समाप्यं होमन्तु शेषं सम्प्राशयेच्चरुम्॥४४८ आचम्य पूजयेद्देवं वैष्णवान् भोजयेत्ततः । स्वयं भुञ्जीत तद्रात्रावधःशायी समाहितः ॥४४६ एवं द्वादशभिः पूज्यश्चैये नावमिके तथा । षष्टिवर्षसहस्राणि श्वेतद्वीपनिवासिनम् ।।४५० संपूज्य यदवाप्नोति तदेवात्र समश्नुते । यज्ञायुतशतं लब्ध्वा विष्णुलोके महीयते ॥४५१ तस्यैव पौर्णमास्याञ्च शीतांशो रुदये तथा । स्नात्वा संपूजयेद्देवं माधवं रमया सह ॥४५२ शुद्धजाम्बूनदप्रख्यं कन्दर्पशतसन्निभम् । लक्ष्म्या सह समासीनं विमले हेमपङ्कजे ॥४५३ चन्दनेन सुगन्धेन करवीराब्जपङ्कजैः । कर्पूरकुङ्कुमोपेतचन्दनेन च पूजयेत् ।।४५४