SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १११५ षडक्षरेण मन्त्रेण गन्धमाल्यानुलेपनैः । अभ्यर्च्य जगतामीशं जपेन्मन्त्रं समाहितः । शान्ति शास्त्रं पुराणञ्च नाम्नां विष्णोः सहस्रकम् ।।४३४ . पावमा विष्णुसूस्तैः कुर्यात् पुष्पाञ्जलि ततः । रामायणशतश्लोक्या दद्यात् पुष्पाणि वैष्णवः ।।४३५ सशर्करं पायसान कपिलाघृतसंयुतम् । रम्भाफलं पानकञ्च नैवेद्य विनिवेदयेत् ॥४३६ पीतानि नागपर्णानि स्निग्धपूगोफलानि च । कर्पूरेण च संयुक्त ताम्बूलञ्च समर्पयेत् ।।४३७ दीपानीराजयेद्भक्त्या नमस्कृत्य पुनः पुनः । प्रीतये रघुनाथस्य कुर्यादानानि शक्तितः ।।४३८ षडक्षरेण साहस्रं तिलैर्वा पायसेन वा । कमलै बिल्वपत्रै र्वा घृतेन जुहुयात्ततः ॥४३६ अस्य वामेति सूक्तेन समिद्भिः पिप्पलस्य तु | वैकुण्ठपार्षदं हुत्वा होमशेषं समापयेत् ।।४४० रात्रौ जागरणं कुर्यात् द्वित्रियामं समर्चयेत् । प्रभाते विमले चापि ततो भरतजन्मनि ॥४४१ तृतीयेऽहनि मध्याह्न सौमित्रो जन्मवासरे। सानुजं जगतामीशमर्चयेत् पूर्ववद् द्विजः ।।४४२ पूजां पुष्पाञ्जलिं होमं जपं ब्राह्मणभोजनम् । अविच्छिन्न तथा कुर्यादग्निहोत्रं त्रिवासरम् ॥४४३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy