________________
१११४
वृद्धहारीतस्मृतिः ।
सहस्र ं मूलमन्त्रत्रेण पूजयेत्तुलसीदलैः । तिलमिव पृथुकै जुहुयाद्धव्यवाहने ||४२३ प्रयद्व इति सूक्ताभ्यां नासदासीत्यनेन च । मन्त्रेणाऽऽज्यं सहस्रन्तु जुहुयाद्वैष्णवोत्तमः ||४२४ भोजयेद्वैष्णवान् भक्त्या विशेषेणार्थयेद् गुरुम् । कौ तु शतवर्षन्तु समभ्यर्च्य विधानतः ॥ ४२५ अत्राप्यर्श्वनमात्रेण तत्फलं समवाप्नुयात् । मधुशुक्लप्रतिपदि केशवं पूजयेद् द्विजः ॥४२६ स्नात्वा मध्याह्नसमये करवीरैः सुगन्धिभिः । अग्निमील इत्याद्य ेन प्रत्यृचं कुसुमैर्यजेत् ॥४२७ मन्त्ररत्नेन वाऽभ्यर्च्य चरुपायसहोमकृत् । ईले द्यावेति सूक्त ेन यदिन्द्राग्नीत्यनेन च ॥ ४२८ विष्णुसूक्तैश्च जुहुयाद् गायत्र्या विष्णुसंज्ञया । अपूपान् कटकाकारान् शाल्यन्न घृतसंयुतम् ॥४२६ फलैश्व भक्ष्यभोज्यैश्च नैवेद्य ं विनिवेदयेत् । भोजयेंद् ब्राह्मणान् शक्त्या दक्षिणाभिः प्रपूजयेत् ॥४३० साग्र ं सम्वत्सरं तत्र सम्यक् संपूजयेद्धरिम् । सर्वान् कामानवाप्नोति हयमेधायुतं लभेत् ।।४३१ तस्मिन्नवम्यां शुम्ले तु नक्षत्रेऽदितिदैवते । तत्र जातो जगन्नाथो राघवः पुरुषोत्तमः || ४३२ तस्मिन्नुपोष्य मध्याह्न े स्नात्वा सन्ध्यां विधानतः । तर्पयित्वा पितॄन् देवानर्चयेद्राघवं हरिम् ||४३३
[ पश्वमो