________________
ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम्। १११३
लोध्रनीपार्जुनै गैः कर्णिकारैः कदम्बकैः। कोविदारैः करवीरै बिल्वरास्फोटकैरपि ॥४१२ दशाक्षरेण मन्त्रण पूजयेत् पुरुषोत्तमम् । ये त्रिंशतीति सूक्तेन दद्यात् पुष्पाञ्जलिं ततः ॥४१३ श्रीकृष्णं तुलसीपौः प्रत्यूचं पूजयेद्विभुम् । श्रीकृष्णाय नम इति सूक्त नाष्टोत्तरं शतम् ।।४१४ पूजयित्वाऽथ होमन्तु तिलैः कृष्णघृतान्वितैः । प्रत्यूचं वैष्णवैः सूक्त र्जुहुयात् पुरुषोत्तमम् ।।४१५ समिद्भिः पिप्पलैश्चापि मन्त्रोणाष्टोत्तरं शतम् । नामभिः केशवाद्यैश्च चरु पश्चाद् घृतप्लुतम् ॥४१६ वैष्णव्या चैव गायत्र्या पृषदाज्यं शतं तथा । गुडोदनं सर्पिषाऽक्त भक्ष्याणि विविधानि च ॥४१७ क्षीराम शर्करोपेतं नैवेद्यश्च समर्पयेत् । वैष्णवान् भोजयेत्पश्चात् स्वयं भुञ्जीत वाग्यतः ॥४१८ एवमभ्यय॑ गोविन्दं कृष्णाष्टम्यां विधानतः । सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥४१६ द्वयोरप्यनयोः श्रीशं कूर्मरूपं समर्चयेत् । ससागरां महीं सर्वा लभते नात्र संशयः ॥४२० अर्चयेन्मूलमन्त्रण गन्धपुष्पाक्षतादिभिः । अर्धयित्वा विधानेन हविष्यं व्यञ्जनैर्युतम् ।।४२१ सुदीर्घयन्त्रजान् सूपघृतमिश्रान् निवेदयेत् । अहं पूर्वेति सूक्त न कुर्यात्पुष्पाञ्जलिं ततः ॥४२२