________________
१११२ वृद्धहारीतस्मृतिः। [पामो
भुक्त्वा भोगान् मनोरम्यान् विष्णुलोके महीयते । लक्ष्मीनारायणं देवं भार्गवे वासरे निशि ॥४०१ अखण्डबिल्वपत्रौश्च तुलसीकोमलैर्दलैः। अर्चयेन्मन्त्ररत्नेन वामाङ्कस्थश्रिया सह ॥४०२ चन्दनं कुखुमोपेतङ्कस्तूर्या च समर्चयेत्। श्रीसूक्तपुरुषसूक्ताभ्या दद्यात् पुष्पाञ्जलिं ततः ।।४०३ मन्त्रद्वयेन पुष्पाणां सहस्रं च निवेदयेत् ।। त्वमग्न इति सूक्तेन प्रत्यूचं कुसुमान् यजेत् ॥४०४ अखण्डविल्वपौर्वा पद्मपौ तेन वा ! श्रीसूक्तपुरुषसूक्ताभ्यां प्रत्यूचंजुहुयात् ततः ।।४०५ अग्निं न वेति सूक्तेन तिलै हिभिरेव वा । मन्त्ररत्नेन जुहुयात् सुगन्धकुसुमैः शतम् ।।४०६ मण्डकान् क्षीरसंयुक्तान् पायसान्न सशर्करम् । शाल्यन पृषदाज्यं च भक्यास्मै विनिवेदयेत् ॥४०७ अभ्यर्च्य विप्रमिथुनान् वासोऽलङ्कारभूषणैः । भोजयित्वा यथाशक्त्या पश्चाद्भुञ्जीत वाग्यतः ॥४०८ मन्वन्तरशतं विष्णुं दुग्धाब्धौ हेमपङ्कजैः । संपूज्य यदवाप्नोति तत्फलं भृगुवासरे ।।४०६ एवं संपूज्यमानस्तु तस्मिन्नहनि वैष्णवैः। लक्ष्म्या सह हरिः साक्षात् प्रत्यक्षं तत्क्षणाद्भवेत् ।।४१० कृष्णाष्टम्यां चतुर्दश्यां सायंसन्ध्यासमागमे । गोपालपुरुषं कृष्णमर्चयेच्छद्धयाऽन्वितः। मल्लिकामालतीकुन्दयूथी कुटजकेतकैः ।।४११