________________
न्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । ११११
अर्चयेद्भूधरं देवं तम्मन्द्रोणैव वैष्णवः। दूरादिहेति सूक्तेन दद्यात् पुपाञ्जलिं द्विजः ।।३६० मन्त्रोण च सहस्रं तु शतं वाऽपि यजेत्तदा । तिलैश्च जुहुयात्तद्वत् सूक्तेन प्रत्यूचं घृतम् ॥३६१ सूपान्न कृसरान्नं च भक्ष्यापूपान् घृतप्लुतान् । नैवेद्यं विनिवेद्यशे ब्राह्मणान् भोजयेत्ततः ॥३६२ एवं संपूज्य देवेशं संक्रान्तौ ग्रहणे हरिम् । कल्पकोटिसहस्राणि विष्णुलोके महीयते ।।३६३ वैशाखे पूजयेद्रामं काकुत्स्थ पुरुषोत्तमम् । सीतालक्ष्मणसंयुक्तं मध्याह्न पूजयेद्विभुम् ।।३६४ पुन्नागकेतकीपमैरुत्पलैः करवीरकैः । चाम्पेयैबकुलैः पूजां षडणेनैव कारयेत् ।।३६५ जातये वातिसूक्तेन कुर्यात् पुष्पाञ्जलिं ततः । संक्षेपेण शतश्लोक्यां प्रतिश्लोकं यजेत्ततः ।।३६६ पुष्पाञ्जलिं सहस्रं तु मन्त्रोणैव यजेत्ततः । त्वमग्न इति सूक्तेन पायसं जुहुयादृचा ।।३६७ पश्चान्मोणाऽऽज्यहोमो नैवेद्यं पायसं घृतम् । कदलीफलं शर्करां च पानकं च निवेदयेत् ।।३६८ पञ्च सप्त त्रयो वाऽपि पूजनीया द्विजोत्तमाः। सुहृद्यैरन्नपानाद्यैर्गोहिण्यादिदक्षिणैः ।।३६६ हविष्यानं स्वयं भुक्त्वा पठेद्रा मायणं नरः । एवं संपूज्य बिधिवद्राघवं जानकीयुतम् ।।४००