SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । ११०७ ध्यायन् कमलपत्राक्षं स्वयं भुञ्जीत वाग्यतः। अहःशेष समानीय पुराणं वाचयन् बुधः ॥३४६ साया समनुप्राप्ते दोलायां पूजयेद्धरिम् । अभ्यर्च्य गन्धपुष्पाद्यैर्भक्ष्यैनानाविधैरपि ॥३४७ ब्राह्मणस्यतु सूक्तैश्च शनैलां प्रचालयेत् । इतिहासपुराणाभ्यां गीतवाद्यैः प्रबन्धकैः ।।३४८ एवं संपूजयेद्देवं तस्यां निशि समाहितः । मध्याह्न पूजयेद्विष्णुं वैष्णवेन समाहितः ॥३४६ चम्पकैः शतपत्रैश्च करवीरैः सितैरपि । वैष्णवेनैव मन्त्रेण पूजयेत्कमलापतिम् ।।३५० नकरीन्द्रेति सूक्तेन दद्यान पुष्पाञ्जलि हरेः । मन्त्रणाष्टोत्तरशतं दद्यात् पुष्पाणि भत्तितः ॥३५१ तथैव होमं कुर्वीत सिौ ब्रीहिभिरेज वा। सुध्यन्न फलयुतं नैवेद्य विनिवेदयत् ॥३५२ दीपैनीराजनं कृत्वा वैष्णवान् भोजयेत्ततः । मन्दवारे तु साया तावत्सम्यगुपोषितः ।।३५३ तिलैः स्नात्वा विधानेन सन्तयं च सनातनम् । नृसिंहवपुषं देवं पूजयेत्तद्विधानतः ॥३५४ मन्त्रराजेन गायत्र्या मूलमन्त्रेण वा यजेत्। अखण्डविल्वपत्रैश्च जातिकुन्दैश्च यूथिकैः ॥३५५ छन्नः पञ्चोशना शान्त्याः त्वमग्ने ! धुभिरीति च । दद्यात् पुष्पाञ्जलिं भक्त्या मन्त्रेणैव शतं यथा ॥३५६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy