SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ११०६ वृद्धहारीतस्मृतिः। [पञ्चमो अष्टोत्तरशतं नित्यं तिलहोम समाचरेत् ।। मनुना वैष्णवेनापि गायत्र्या विष्णुसंज्ञया ॥३३५ हुत्वा पुष्पाञ्जलिं दत्वा ताभ्यामेव तदा विभोः । हविष्यं मोदकं शुद्धं नक्तं भुञ्जीत वाग्यतः॥३३६ तैलं शुक्तं तथा मांसं निष्पावान्माक्षिकं तथा । चणकानपि माषांश्च वर्जयेत्कार्तिकेऽहनि ॥३३७ भोजयेद्वैष्णवान् विप्रान् नित्यं दानादिशक्तयः । अन्ते च भोजयेद्विप्रान् दक्षिणाभिश्च तोषयेत् ॥३३८ एवं संपूज्य देवेशं कार्तिके ऋतुकोटिभिः । पुण्यं प्राप्यानघो भूत्वा विष्णुलोके महीयते ॥३३६ दशमीमिश्रितां त्यक्त्वा वेलायामरुणोदये । उपोष्यैकादशी शुद्धा द्वादशी वाऽपि वैष्णवः ॥३४० स्नात्वाऽऽमलक्या नद्यां तु विधानेन हरिं यजेत् । सुगन्धकुसुमैः शुभ्राचारैश्च सर्वशः ॥३४१ रात्री जागरणं कुर्यात् पुराणं 'हितां पठेत् । जागरेऽस्मिन्नशक्तश्चेदर्भानास्तीर्य वैष्णवः ॥३४२ पुरतो वासुदेवस्य भू.. स्वप्यात्समाहितः । ततः प्रभातसमये तुलसीमिश्रितैजलैः ॥३४३ स्नात्वा सन्तर्प्य देवेशं तुल्यस्या मूलमन्त्रतः । द्वयेन वा विष्णुसूक्तैः कुर्य्यात् षुष्पाञ्जलीस्ततः ॥३४४ तथैव जुहुयादाज्यं मन्त्रेणैव शतं ततः । पायसानं निवेद्यशे ब्राह्मणान् भोजयेत्ततः ॥३४५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy