SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ११०४ वृद्धहारीतस्मृतिः । सहस्र ं शतवारं वा द्वयं मन्त्रं जपेः सुधीः । द्वादशार्णमनुञ्चैव जप्त्वाऽऽज्येन तिलैश्च वा ||३१३ केवलं चरुणा वाऽपि जुहुयात्प्रतिवासरम् । अधःशायी ब्रह्मचारी सर्वभोगविवर्जितः || ३१४ वार्षिकांश्चतुरो मातानेवमभ्यर्च्य केशवम् । बोधयित्वाऽथ कार्तिक्यां दद्यात् पुष्पाण्यनेकशः ॥ ३१५ साज्यैस्तिलैः पायसेन मधुना च सहस्रशः । मूलमन्त्रेण जुहुयात् सूक्तेश्वावभृथं ततः ॥ ३१६ सहस्रनामभिः कृत्वा दद्याद्दर्पणमेव च । गृहं गत्वाऽथ देवेशम्पूजयित्वा यथाविधि ।। ३१७ भोजयेद्वैष्णवान् विप्रान् दक्षिणाभिश्च तोषयेत् । शुकपक्षे नभोमासि द्वादश्यां वैष्णवः शुचिः ।। ३१८ पवित्रारोपणं कुर्य्यान्नाभिमात्रायतं न्यसेत् । तथा वक्षसि पर्यन्तं सहस्रन्तान्तवं स्मृतम् ॥३१६ कुशप्रन्थिसहस्रन्तु पादान्तं विन्यसेत्ततः । सौवर्णी राजतीं मालां शतप्रन्थियुतां न्यसेत् ॥३२० मृणालतन्तवं पश्चात् पुष्पमालां ततः परम् । शतमौक्तिकहाराणि नानारत्नमयान्यपि ।। ३२१ उपोष्यैकादशीं तत्र रात्रौ जागरणान्वितः । अभ्यर्च्चयेज्जगन्नाथं गन्धपुष्पफलादिभिः ॥ ३२२ नीत्वा रात्रिं नर्तनाद्यैः प्रभाते विमले नदीम् । गत्वा स्नात्वा च विधिना तर्पयित्वेशमयेत् ॥ ३२३ [ पञ्चमो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy