________________
अध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०६६
कनिष्ठतजन्यङ्गुष्ठेरुदानायेति वै यजेत् । समानायेति जुहुयात्सर्वरङ्गुलिभिर्द्विजः ॥२५६ अयमग्निवैश्वानरिरित्यात्मानमनन्तरम् । शतमष्टोत्तरं मन्त्रं मनसैव जपेत्ततः ।।२६० ध्यायन् नारायणं देवं भुञ्जीयात् तु यथासुखम् । वक्त्रादपातयन् पासं चिन्तयन्मधुसूदनम् ।।२६१ नाऽऽसनारूढपादस्तु न वेष्टितशिरास्तथा । न स्कन्दयन् न च हसन वहिर्नाप्यवलोकयन् ।।२६२
नाऽऽत्मीयान् प्रलपन जल्पन् बहिर्जानुकरो न च । न वादकोपितनरः(पादारोपितकरः)पृथिव्यामपि वा न च ॥२६३
न प्रसारितपादश्च नोत्सङ्गकृतभाजनः । नाश्नीयाद्भार्यया साधं न पुत्रैर्वापि विह्वलः ॥२६४ न शयानो नातिसङ्गो न विमुक्तशिरोरुहः। अन्नं वृथा न विकिरन् निष्ठीवन् नातिकावया ॥२६५ नातिशब्देन भुञ्जीत न वस्त्रार्थोपवेष्टितः। प्रगृह्य पात्रं हस्तेन भुञ्जीयात् पैतृकं यदि ॥२६६ चषके पुटके वाऽपि पिबेत्तोयं द्विजोत्तमः। तकं वाऽप्यथ वा क्षीरं पानकं वाऽपि भोजने ॥२६७ वकोण सान्तर्धानेन दुत्तमन्येन वा पिबेत् । प्रासशेषं नचाश्नीयात्पीतशेषं पिवेन्न तु ।।२६८ शाकमूलफलादीनि दन्तच्छिन्नं न खादयेत् । उद्धृत्य वामहस्तेन तोयं वकोण यः पिबेत् ॥२६६