SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ११०० वृद्धहारीतस्मृतिः। [पञ्चमोस सुरां वै पिबेद् व्यक्तां सद्यः पतति रौरवे । शब्देनापोशने पीत्वा शब्देन दधिपायसे ॥२७० शब्देनानरसं क्षीरं पीत्वेव पतितो भवेत् । प्रत्यक्षलवणं शुक्तं क्षीरं च लवणान्वितम् ।।२७१ दधि हस्तेन मथितं सुरापानसमं स्मृतम् । आरनालरसं तद्वत्तद्वैवानार्पितं हरेः ॥२७२ आसनेन तु पारेण नैव दद्याघृतादिकम् । नोच्छिष्टं घृतमादद्यात् पैतृके भोजन विना ॥२७३ तथैव तु पुरोडाशं पृषदाज्यश्च माक्षिकम् । पानीयं पायसं क्षीरं घृतं लवणमेव च ॥२७४ हस्तदत्तं न गृह्णीयात्तुल्यं गोमांसभक्षणम् । अपूपं पायसं माषं (मांस) यावकं कृसरं मधु ॥२७५ केवलं यो वृथाश्नाति तेन भुक्तं सुरासमम् । करञ्जमूलकं शिग्रु लशुनं तिलपिष्टकम् ॥२७६ तलास्थि श्वेतवृन्ताकं सुरापानसमं स्मृतम् । अन्यच्च फलमूलाधं भक्ष्यं पानादिकञ्च यत् ॥२७७ स्रक्चन्दनादि ताम्बूलं यो भुङ्क्ते हर्यनर्पितम् । कल्पकोटिसहस्राणि रेतोविण्मूत्रभाग भवेत् ॥२७८ तस्मात्सर्व सुविमलं हरिभुक्तं यथोक्तवत् । स पवित्रण यो भाङ्क्ते सर्वयज्ञफलं लभेत् ।।२७६ ध्यायन् नारायणं देवं वाग्यतः प्रयतात्मवान् । भुक्त्वावनतितृप्त्यैव प्राशयेदम्बु निर्मलम् ॥२८०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy