SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ १०६८ वृद्धहारीतस्मृतिः । भल्लातकाश्वपर्णानां पर्णानि परिवर्जयेत् । मोचागर्भपलाशं च वर्जयेत्तत्तु सर्वदा || २४८ मधुकं कुटजं ब्राह्मजम्बूलक्ष मुदुम्बरम् । मातुल (लु) ङ्गं पनसं च मोचाचर्मदलानि च ॥ २४६ पालाक्यवर्णं श्रीपर्णं शुभानीमानि भोजने । यथाकालोपपन्ने तु भोजने घृतसंस्कृते ॥ २५० ་ཞུ पत्न्यादिभिर्दत्तवस्तु वास्तुदेवार्पिते शुभे । गायत्र्या मूलमन्त्रेण संप्रोक्ष्य शुभवारिणा ||२५१ तसत्याभ्यामिति च मन्त्राभ्यां परिषेचयेत् । अन्नरूपं विराजं संध्यात्वा मन्त्रं जपेद्बुधः ॥ २५२ ध्यात्वा हृत्पङ्कजे विष्णु सुधांशुसदृशद्युतिम | शङ्खचक्रगदापद्मपाणि वै दिव्यभूषणम् || २५३ मनसैवार्चयित्वाऽथ मूलमन्त्रेण वैष्णवः । पादोदकं हरेः पुण्यं तुलसीदलमिश्रितम् ॥२५४ अमृतोपस्तरणमसीति मन्त्रेण प्राशयेत् । उद्दिश्यैव हरिं प्राणान् जुहुयात् सघृतं हविः ॥२५५ अन्नलाभे तु होतव्यं शाकमूलफलादिभिः । पञ्चप्राणाद्या हुतयो मन्त्रैस्तैर्जुहुयाद्धरेः ॥ २५६ श्रद्धायां प्राणे (नि) विष्ठेति मन्त्रेण च यथाक्रमात् । तर्जनीमध्यमाङ्गुष्ठैः प्राणायेति यजेद्धविः || २५७ मध्यमानामिकाष्ठैरपानायेत्यनन्तरम् । कनिष्ठानामिकाङ्गुष्ठैर्व्यानायेत्याहुतिं ततः ॥ २५८ [ पश्वम्रो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy